Konstitucija sanskrito kalba
Užupio Respublikos Konstitucija sanskrito kalba
संविधानम्
- पुरुषो विल्नेलेनद्याः समीपे प्रतिवस्तुमर्हति विल्नेलेनदी च पुरुषस्य समीपे सर्तुमर्हति ॥
- पुरुष उष्णोदकं हिमर्तावुपतापम्मृच्छदछदिश्चार्हति ॥
- पुरुषो मर्तुमर्हति नास्ति त्विदमस्य कृत्यम् ॥
- पुरुषो भ्रान्तुमर्हति ॥
- पुरुषो ऽनन्यो भवितुमर्हति ॥
- पुरुषः कामयितुमर्हति ॥
- पुरुषो ऽकान्तो भवितुमर्हति किन्तु नियोगेन विना ॥
- पुरुषो ऽविश्रुतो ऽविज्ञातो च भवितुमर्हति ॥
- पुरुषो ऽलसो भवितुं न किंचिच्च कर्तुमर्हति ॥
- पुरुषो मार्जारम्प्रेतुं तं चोपकर्तुमर्हति ॥
- पुरुषः श्वानम्प्रतिरक्षितुमर्हत्येकतरस्य जीवितपर्यन्तम् ॥
- श्वा श्वा भवितुमर्हति ॥
- नास्ति मार्जारस्य स्वधर्मः स्वस्वामिनम्प्रेतुं किन्तु दुःखकाले तेनास्य साहाय्यं कर्तव्यम् ॥
- पुरुषः काले काले ऽविद्वान्भवितुमर्हति स्वकार्यविषये ॥
- पुरुषः संदिग्धो भवितुमर्हति नास्ति त्विदमस्य कृत्यम् ॥
- पुरुषः सुखी भवितुमर्हति ॥
- पुरुषो ऽसुखी भवितुमर्हति ॥
- पुरुषो मौनं समाचरितुमर्हति ॥
- पुरुषः श्रद्धातुमर्हति ॥
- पुरुषो हिंसितुं नार्हति ॥
- पुरुषः स्वमहत्त्वं स्वक्षुद्रत्वं च प्रत्यवबोद्धुमर्हति ॥
- पुरुषः शाश्वतत्वम्प्रति व्यवसायं कर्तुं नार्हति ॥
- पुरुषो ऽवगन्तुमर्हति ॥
- पुरुषो न किंचिदवगन्तुमर्हति ॥
- पुरुषो यद्राष्ट्री भवितुमर्हति ॥
- पुरुषो ऽपि स्वजन्मदिनमहोत्सवं कर्तुमकर्तुं वार्हति ॥
- पुरुषेण स्वनाम स्मर्तव्यम् ॥
- पुरुषः स्वं स्वं भक्तुं शक्नोति ॥
- पुरुषो ऽस्वमस्वं भक्तुं न शक्नोति ॥
- पुरुषो भ्रातृस्वसृमातृपितृवान्भवितुमर्हति ॥
- पुरुषः स्वतन्त्रो भवितुमर्हति ॥
- पुरुषस्य स्वतन्त्रता तस्य कार्यम् ॥
- पुरुषो रोदितुमर्हति ॥
- पुरुषो ऽनवगतो भवितुमर्हति ॥
- पुरुषो ऽन्यमभियोक्तुं नार्हति ॥
- पुरुषो विशेषी भवितुमर्हति ॥
- पुरुषो न किंचिदर्हितुमर्हति ॥
- पुरुषो न भेतुमर्हति ॥
- मा जैषीः ॥
- प्रतियुद्धम्मा कर्षीः ॥
- निग्रहम्मा स्वीकार्षीः ॥